Manikarnikashtakam
Maṇikarṇikāṣṭakam
All 8 verses
Verse 1
त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौ वादन्तौ कुरुतः परस्परमुभौ जन्तोः प्रयाणोत्सवे । मद्रूपो मनुजोऽयमस्तु हरिणा प्रोक्तः शिवस्तत्क्षणात्तन्मध्याद्भृगुलाञ्छनो गरुडगः पीताम्बरो निर्गतः ॥१॥
Verse 2
इन्द्राद्यास्त्रिदशाः पतन्ति नियतं भोगक्षये ये पुनर्जायन्ते मनुजास्ततोऽपि पशवः कीटाः पतङ्गादयः । ये मातर्मणिकर्णिके तव जले मज्जन्ति निष्कल्मषाः सायुज्येऽपि किरीटकौस्तुभधरा नारायणाः स्युर्नराः ॥२॥
Verse 3
काशी धन्यतमा विमुक्तनगरी शालङ्कृता गङ्गया तत्रेयं मणिकर्णिका सुखकरा मुक्तिर्हि तत्किङ्करी । स्वर्लोकस्तुलितः सहैव विबुधैः काश्या समं ब्रह्मणा काशी क्षोणितले स्थिता गुरुतरा स्वर्गो लघुत्वं गतः ॥३॥
Verse 4
गङ्गातीरमनुत्तमं हि सकलं तत्रापि काश्युत्तमा तस्यां सा मणिकर्णिकोत्तमतमा यत्रेश्वरो मुक्तिदः । देवानामपि दुर्लभं स्थलमिदं पापौघनाशक्षमं पूर्वोपार्जितपुण्यपुञ्जगमकं पुण्यैर्जनैः प्राप्यते ॥४॥
Verse 5
दुःखाम्बोधिगतो हि जन्तुनिवहस्तेषां कथं निष्कृतिः ज्ञात्वा तद्विरिञ्चिना विरचिता वाराणसी शर्मदा । लोकाः स्वर्गसुखास्ततोऽपि लघवो भोगान्तपातप्रदाः काशी मुक्तिपुरी सदा शिवकरा धर्मार्थमोक्षप्रदा ॥५॥
Verse 6
एको वेणुधरो धराधरधरः श्रीवत्सभूषाधरो योऽप्येकः किल शङ्करो विषधरो गङ्गाधरो माधवः । ये मातर्मणिकर्णिके तव जले मज्जन्ति ते मानवाः रुद्रा वा हरयो भवन्ति बहवस्तेषां बहुत्वं कथम् ॥६॥
Verse 7
त्वत्तीरे मरणं तु मङ्गलकरं देवैरपि श्लाघ्यते शक्रस्तं मनुजं सहस्रनयनैर्द्रष्टुं सदा तत्परः । आयान्तं सविता सहस्रकिरणैः प्रत्युद्गतोऽभूत्सदा पुण्योऽसौ वृषगोऽथवा गरुडगः किं मन्दिरं यास्यति ॥७॥
Verse 8
मध्याह्ने मणिकर्णिकास्नपनजं पुण्यं न वक्तुं क्षमः स्वीयैरब्दशतैश्चतुर्मुखधरो वेदार्थदीक्षागुरुः । योगाभ्यासबलेन चन्द्रशिखरस्तत्पुण्यपारंगतः त्वत्तीरे प्रकरोति सुप्तपुरुषं नारायणं वा शिवम् ॥८॥