Bhagavan Manasa Puja

Bhagavanmānasapūjā

All 11 verses

Verse by verse

Verse 1

हृदम्भोजे कृष्णः सजलजलदश्यामलतनुः सरोजाक्षः स्रग्वी मुकुटकटकाद्याभरणवान् । शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां वहन् ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥१॥

Verse 2

पयोऽम्भोधेर्द्वीपान्ममहृदयमायाहि भगवन् मणिव्रातभ्राजत्कनकवरपीठं भज हरे । सुचिह्नौ ते पादौ यदुकुलजनेनेज्मि सुजलैः गृहाणेदं दूर्वाफलजलवदर्घ्यं मुररिपो ॥२॥

Verse 3

त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽतिशिशिरं भजस्वेमं पञ्चामृतरचितमाप्लावमघहन् । द्युनद्याः कालिन्द्या अपि कनककुम्भस्थितमिदं जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥३॥

Verse 4

तडिद्वर्णे वस्त्रे भज विजयकान्ताधिहरण प्रलम्बारिभ्रातर्मृदुलमुपवीतं कुरु गले । ललाटे पाटीरं मृगमदयुतं धारय हरे गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥४॥

Verse 5

दशाङ्गं धूपं सद्वरदचरणाग्रेऽर्पितमये मुखं दीपेनेन्दुप्रभवरजसा देव कलये । इमौ पाणी वाणीपतिनुत सकर्पूररजसा विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥५॥

Verse 6

सदा तृप्तान्नं षड्रसवदखिलव्यञ्जनयुतं सुवर्णामत्रे गोघृतचषकयुक्ते स्थितमिदम् । यशोदासूनो तत्परमदययाऽशान सखिभिः प्रसादं वांछद्भिः सह तदनु नीरं पिब विभो ॥६॥

Verse 7

सचन्द्रं ताम्बूलं मुखरुचिकरं भक्षय हरे फलं स्वादु प्रीत्या परिमलवदास्वादय चिरम् । सपर्यापर्याप्त्यै कनकमणिजातं स्थितमिदं प्रदीपैरारात्रिं जलधितनयाऽऽश्लिष्ट रचये ॥७॥

Verse 8

विजातीयैः पुष्पैरभिसुरभिभिर्बिल्वतुलसी-युतैश्चेमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे । तव प्रादक्षिण्यक्रमणमघविध्वंसिरचितं चतुर्वारं विष्णो जनिपथगतिश्रान्तविदुषा ॥८॥

Verse 9

नमस्कारोऽष्टाङ्गः सकलदुरितध्वंसनपटुः कृतं नृत्यं गीतं स्तुतिरपि रमाकान्त त इमम् । तव प्रीत्यै भूयादहमपि च दासस्तव च दासस्तव विभो कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥९॥

Verse 10

सदा सेव्यः कृष्णः सजलघननीलः करतले दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् । कदाचित्कान्तानां कुचकलशपत्रालिरचना-समासक्तं स्निग्धैः सह शिशुविहारं विरचयन् ॥१०॥

Verse 11

मणिकर्णीच्छया जातमिदं मानसपूजनम् । यः कुर्वीतोषसि प्राज्ञस्तस्य कृष्णः प्रसीदति ॥११॥