Narmadashtakam
Narmadāṣṭakam
All 8 verses
Verse 1
सबिन्दुसिन्धुसुस्कलत्तरङ्गभङ्गरञ्जितं द्विषत्सु पापजातकारिवारिसंन्युतम् । कृतान्तदूतकालभूतभीतिहारिवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥१॥
Verse 2
त्वदम्बुलीनदीनमीनदिव्यसंप्रदायकं कलौ मलौघभारहारिसर्वतीर्थनायकम् । सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥२॥
Verse 3
महागभीरनीरपूरपापधूतभूतलं ध्वनत्समस्तपातकारिरीतापदाचलम् । जगल्लये महाभये मृकण्डुसूनुहर्म्यदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥३॥
Verse 4
गतं तदैव मे भयं त्वदम्बु विम्शितं यदा मृकण्डुसूनुशौनकासुरारिसेवितं सदा । पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥४॥
Verse 5
अलक्षलक्षकिन्नरामरासुरादिपूजितं सुलक्षणीरतीरधीरपक्षिलक्षकूजितम् । वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥५॥
Verse 6
सनत्कुमारनाचिकेतकश्यपात्रिषट्पदैर्धृतं स्वकीयमानसेषु नारदादिषट्पदैः । रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥६॥
Verse 7
अलक्षलक्षपापलक्षसारसायुधं ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् । विरिञ्चिविष्णुशङ्करस्वकीयधामवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥७॥
Verse 8
अहो धृतं स्वनं श्रुतं महेशकेशजातटे किरातसूतबाडवेषु पण्डिते शठे नटे । दुरन्तपापतापहारि सर्वजन्तुशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥८॥