Shiva Padadi Keshanta Varnana Stotram
Śivapādādikeśāntavarṇanastotram
All 12 verses
Verse 1
कल्याणं वो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज क्रीडासंसक्तविद्याधरनिवहवधूगीतरुद्रापदानः तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी कैलासश्शर्वनिर्वृत्यभिजनकपदस्सर्वदा पर्वतेन्द्रः ॥1॥
Verse 2
यस्य प्राहुस्स्वरूपं सकलदिविषदां सारसर्वस्वयोगं यत्येषुश्शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यं सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥2॥
Verse 3
आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधारात्तधारः क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्वन् घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥3॥
Verse 4
कालारातेः कराग्रे कृतवसतिरुरश्शाणशातो रिपूणां काले काले कुलाद्रि प्रवरतनयया कल्पितस्नेहलेपः पायान्नः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तं शूलश्श्रीपादसेवाभजनपरहृदां पालनैकान्तशीलः ॥4॥
Verse 5
भजनरसजुषां देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार प्रस्तारानत्युदारान् पिपठिषुरिव यो नित्यमत्यादरेण आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदं सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥5॥
Verse 6
कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः कण्ठारावैरकुण्ठैरपि भरितजगच्चक्रवालान्तरालः चण्डः प्रोद्दण्डशृङ्गः ककुदकबलितोत्तुङ्गकैलासशृङ्गः कण्ठे कालस्य वाहः शमयतु दुरितं शाश्वतः शाक्करेन्द्रः ॥6॥
Verse 7
शमयति शमलं निर्यद्दानाम्बुधारापरिमलतरलीभूतलोलम्बपाली झङ्गारैः शङ्कराद्रेः शिखरशतदरीः पूरयन्भूरिघोषैः शार्वस्सौवर्णशैलप्रतिमपृथुवपुस्सर्वविघ्नोपहर्ता शर्वाण्याः पूर्वसूनुस्स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥7॥
Verse 8
यः पुण्यैर्देवतानां समजनि शिवयोश्श्लाघ्यवीरैकमत्यात् वीर्यैकमत्यात्] यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैल स्संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥8॥
Verse 9
आरूढप्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं चेलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता कुर्वन्नाखेटलीलां परिलसतु मनः कानने मामकीने ॥9॥
Verse 10
अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै र्बिम्बेनेन्दोश्च कम्बोरुपरि विलसता विद्रुमेणोत्पलाभ्याम् अम्भोदेनापि सम्पादितमुपजनिताडम्बरं शम्बरारेः शम्भोस्सम्भोगयोग्यं किमपि धनमिदं सम्भवेत्सम्पदे नः ॥10॥
Verse 11
वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासा न्वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान् एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे शोणान् प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलैः ॥11॥
Verse 12
नृत्तारम्भेषु हस्ताहतमुरजधिमिद्धिंकृतैरत्युदारै श्चित्तानन्दं विधत्ते सदसि भगवतस्सन्ततं यस्स नन्दी चण्डीशाद्यास्तथान्ये चतुरगुणगणप्राणितस्वामिसत्का रोत्कर्षोद्यत्प्रतापाः प्रमथपरिवृढास्सन्तु सन्तोषिणो नः ॥12॥