Ardhanarishwara Stotram
Ardhanārīśvarastotram
All 8 verses
Verse 1
चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥1॥
Verse 2
कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥2॥
Verse 3
झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥3॥
Verse 4
विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥4॥
Verse 5
मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥5॥
Verse 6
अम्भोधरश्यामलकुन्तलायै तडित्प्रभाताम्रजटाधराय निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥6॥
Verse 7
प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥7॥
Verse 8
प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥8॥