Bhavani Bhujangam
Bhavānībhujaṅgam
All 17 verses
Verse 1
षडाधारपङ्केरुहान्तर्विराज त्सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् सुधामण्डलं द्रावयन्तीं पिबन्तीं सुधामूर्तिमीडेऽहमानन्दरूपाम् ॥1॥
Verse 2
ज्वलत्कोटिबालार्कभासारुणाङ्गीं सुलावण्यशृङ्गारशोभाभिरामाम् महापद्मकिञ्जल्कमध्ये विराजत् त्रिकोणोल्लसन्तीं भजे श्रीभवानीम् ॥2॥
Verse 3
क्वणत्किङ्किणीनूपुरोद्भासिरत्न प्रभालीढलाक्षार्द्रपादारविन्दम् अजेशाच्युताद्यैः सुरैः सेव्यमानं महादेवि मन्मूर्ध्नि ते भावयामि ॥3॥
Verse 4
सुषोणाम्बराबद्धनीवीविराज न्महारत्नकाञ्चीकलापं नितम्बम् स्फुरद्दक्षिणावर्तनाभिं च तिस्रो वली रम्यते रोमराजिं भजेऽहम् ॥4॥
Verse 5
लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो पमश्री स्तनद्वन्द्वमम्बाम्बुजाक्षि भजे पूर्णदुग्धाभिरामं तवेदं महाहारदीप्तं सदा प्रस्नुतास्यम् ॥5॥
Verse 6
शिरीषप्रसूनोल्लसद्बाहुदण्डै र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च चलत्कङ्कणोदारकेयूरभूषो ज्ज्वलद्भिर्स्फुरन्तीं भजे श्रीभवानीम् ॥6॥
Verse 7
शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा धरस्मेरवक्त्रारविन्दश्रियं ते सुरत्नावलीहारताटङ्कशोभां भजे सुप्रसन्नामहं श्रीभवानीम् ॥7॥
Verse 8
सुनासापुटं सुन्दरभ्रूललाटं तवैष्ठश्रियं दानदक्षं कटाक्षम् ललाटे लसद्गन्धकस्तूरिभूषं स्फुरच्छ्रीमुखाम्भोजमीडेऽहमम्ब ॥8॥
Verse 9
चलत्कुण्डलां ते भ्रमद्भृङ्गवृन्दां घनस्निग्धधम्मिल्लभूषोज्ज्वलन्तीम् स्फुरन्मौलिमाणिक्यमध्येन्दुरेखा विलासोल्लसद्दिव्यमूर्धानमीडे ॥9॥
Verse 10
स्फुरत्वम्ब बिम्बस्य मे हृत्सरोजे सदा वाङ्मयं सर्वतेजोमयं च इति श्रीभवानिस्वरूपं तदेवं प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ॥10॥
Verse 11
गणेशाणिमाद्याखिलैः शक्तिवृन्दैः स्फुरच्छ्रीमहाचक्रराजोल्लसन्तीम् परां राजराजेश्वरीं त्वा भवानीं शिवाङ्कोपरिस्थां शिवां भावयेऽहम् ॥11॥
Verse 12
त्वमर्कस्त्वमग्निस्त्वमिन्दुस्त्वमाप स्त्वमाकाशभूर्वायवस्त्वं चिदात्मा त्वदन्यो न कश्चित्प्रकाशोऽस्ति सर्वं सदानन्दसंवित्स्वरूपं तवेदम् ॥12॥
Verse 13
गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव त्वमेवासि माता पिताऽसि त्वमेव त्वमेवासि विद्या त्वमेवासि बुद्धि र्गतिर्मे मतिर्देवि सर्वं त्वमेव ॥13॥
Verse 14
श्रुतीनामगम्यं सुवेदागमाद्यैर् महिम्नो न जानाति पारं तवेदम् स्तुतिं कर्तुमिच्छामि ते त्वं भवानि क्षमस्वेदमम्ब प्रमुग्धः किलाहम् ॥14॥
Verse 15
शरण्ये वरेण्ये सुकारुण्यपूर्णे हिरण्योदराद्यैरगम्येऽतिपुण्ये भवारण्यभीतं च मां पाहि भद्रे नमस्ते नमस्ते नमस्ते भवानि ॥15॥
Verse 16
इमामन्वहं श्रीभवानीभुजङ्ग स्तुतिर्यः पठेच्छ्रोतुमिच्छेत तस्मै स्वकीयं पदं शाश्वतं चैव सारं श्रियं चाष्टसिद्धिं भवानी ददाति ॥16॥
Verse 17
न शोकम् न मोहम् न पापं न भीतिः कदाचित्कथंचित्कुतश्चज्जनानाम् ॥17॥