Dwadashalinga Stotram
Dvādaśaliṅgastotram
All 12 verses
Verse 1
सौराष्ट्रदेशे वसुधावकाशे ज्योतिर्मयं चन्द्रकलावतंसम् भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥1॥
Verse 2
श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥2॥
Verse 3
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥3॥
Verse 4
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय सदैव मान्धातृपुरे वसन्तं ओङ्कारमीशं शिवमेकमीडे ॥4॥
Verse 5
पूर्वोत्तरे प्रज्वलिकानिधाने सदाशिवं तं गिरिजासमेतम् सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥5॥
Verse 6
याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः सद्भुक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥6॥
Verse 7
महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥7॥
Verse 8
सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥8॥
Verse 9
सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसङ्ख्यैः श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥9॥
Verse 10
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ॥10॥
Verse 11
सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥11॥
Verse 12
इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥12॥