Gangashtakam
Gaṅgāṣṭakam
All 8 verses
Verse 1
भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराधयामि । सकलकलुषभङ्गे स्वर्गसोपानगङ्गे तरलतरतरङ्गे देवि गङ्गे प्रसीद ॥१॥
Verse 2
भगवति भवलीलामौलिमाले तवाम्भः कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति । अमरनगरनारीचामरमरग्राहिणीनां विगतकलिकलङ्कातङ्कमङ्के लुठन्ति ॥२॥
Verse 3
ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती स्वर्लोकात् आपतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती । क्षोणी पृष्ठे लुठन्ती दुरितचयचमूर्निर्भरं भर्त्सयन्ती पाथोधिं पूरयन्ती सुरनगरसरित् पावनी नः पुनातु ॥३॥
Verse 4
मज्जन्मातङ्गकुम्भच्युतमदमदिरामोदमत्तालिजालं स्नानैः सिद्धाङ्गनानां कुचयुगविगलत् कुङ्कुमासङ्गपिङ्गम् । सायंप्रातर्मुनीनां कुशकुसुमचयैः छन्नतीरस्थनीरं पायान्नो गाङ्गमम्भः करिकलभकराक्रान्तरंहस्तरङ्गम् ॥४॥
Verse 5
आदावादि पितामहस्य नियमव्यापारपात्रे जलं पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम् । भूयः शम्भुजटाविभूषणमणिः जह्वोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥५॥
Verse 6
शैलेन्द्रात् अवतारिणी निजजले मज्जत् जनोत्तारिणी पारावारविहारिणी भवभयश्रेणी समुत्सारिणी । शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणी काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥६॥
Verse 7
कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं त्वमापीता पीताम्बरपुरनिवासं वितरसि । त्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृतां तदा मातः शातक्रतवपदलाभोऽप्यतिलघुः ॥७॥
Verse 8
गङ्गे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे । प्रायश्चित्तं यदि स्यात् तव जलकणिका ब्रह्महत्यादिपापे कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गङ्गे प्रसीद ॥८॥