Gauri Dashakam

Gaurī Daśakam

All 10 verses

Verse by verse

Verse 1

लीलालब्धस्थापितलुप्ताखिललोकां लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् । बालादित्यश्रेणिसमानद्युतिपुञ्जां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥१॥

Verse 2

प्रत्याहारध्यानसमाधिस्थितिभाजां नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् । सत्यज्ञानानन्दमयीं तां तनुरूपां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥२॥

Verse 3

चन्द्रापीडानन्दितमन्दस्मितवक्त्रां चन्द्रापीडालङ्कृतनीलालकभाराम् । इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥३॥

Verse 4

आदिक्षान्तामक्षरमूर्त्या विलसन्तीं भूते भूते भूतकदम्बप्रसवित्रीम् । शब्दब्रह्मानन्दमयीं तां तटिदाभां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥४॥

Verse 5

मूलाधारादुत्थितवीथ्या विधिरन्ध्रं सौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम् । येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥५॥

Verse 6

नित्यः शुद्धो निष्कल एको जगदीशः साक्षी यस्याः सर्गविधौ संहरणे च । विश्वत्राणक्रीडनलोलां शिवपत्नीं गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥६॥

Verse 7

यस्याः कुक्षौ लीनमखण्डं जगदण्डं भूयो भूयः प्रादुरभूदुत्थितमेव । पत्या सार्धं तां रजताद्रौ विहरन्तीं गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥७॥

Verse 8

यस्यामोतं प्रोतमशेषं मणिमाला- सूत्रे यद्वत् कापि चरं चाप्यचरं च । तामध्यात्मज्ञानपदव्या गमनीयां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥८॥

Verse 9

नानाकारैः शक्तिकदम्बैर्भुवनानि व्याप्य स्वैरं क्रीडति येयं स्वयमेका । कल्याणीं तां कल्पलतामानतिभाजां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥९॥

Verse 10

आशापाशक्लेशविनाशं विदधानां पादाम्भोजध्यानपराणां पुरुषाणाम् । ईशामीशार्धाङ्गहरां तामभिरामां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥१०॥