Jagannathashtakam
Jagannāthāṣṭakam
All 8 verses
Verse 1
कदाचित्कालिन्दीतटविपिनसङ्गीतकरवो मुदा गोपीनारीवदनकमलास्वादमधुपः । रमाशम्भुब्रह्मामरपतिगणेशार्चितपदो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥१॥
Verse 2
भुजे सव्ये वेणुं शिरसि शिखिपिंछं कटितटे दुकूलं नेत्रान्ते सहचरकटाक्षं विदधते । सदा श्रीमद्वृन्दावनवसतिलीलापरिचयो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥२॥
Verse 3
महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे वसन् प्रासादान्तस्सहजबलभद्रेण बलिना । सुभद्रामध्यस्थस्सकलसुरसेवावसरदो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥३॥
Verse 4
कृपापारावारास्सजलजलदश्रेणिरुचिरो रमावाणीसौमस्सुरदमलपद्मोद्भवमुखैः । सुरेन्द्रैराराध्यः श्रुतिगणशिखागीतचरितो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥४॥
Verse 5
रथारूढो गच्छन् पथि मिलितभूदेवपटलैः स्तुतिप्रादुर्भावं प्रतिपद मुपाकर्ण्य सदयः । दयासिन्धुर्बन्धुस्सकलजगता सिन्धुसुतया जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥५॥
Verse 6
परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो निवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि । रसानन्दो राधासरसवपुरालिङ्गनसखो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥६॥
Verse 7
न वै प्रार्थ्यं राज्यं न च कनकतां भोगविभवं न याचेऽहं रम्यां निखिलजनकाम्यां वरवधूम् । सदा काले काले प्रमथपतिना गीतचरितो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥७॥
Verse 8
हर त्वं संसारं द्रुततरमसारं सुरपते हर त्वं पापानां विततिमपरां यादवपते । अहो दीनानाथं निहितमचलं निश्चितपदं जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥८॥