Lakshmi Nrisimha Pancharatnam

Lakṣmīnarasiṃhapañcaratnam

All 5 verses

Verse by verse

Verse 1

त्वत्प्रभुजीवप्रियमिच्छसि चेन्नरहरिपूजां कुरु सततं प्रतिबिम्बालङ्कृतिधृतिकुशलो बिम्बालङ्कृतिमातनुते । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥१॥

Verse 2

शुक्तौ रजतप्रतिभा जाता कटकाद्यर्थसमर्था चेद्दुःखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥२॥

Verse 3

आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोः गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेऽस्मिन् । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥३॥

Verse 4

स्रक्चन्दनवनितादीन्विषयान्सुखदान्मत्वा तत्र विहरसे गन्धफलीसदृशा ननु तेऽमी भोगानन्तरदुःखकृतः स्युः । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥४॥

Verse 5

तव हितमेकं वचनं वक्ष्ये शृणु सुखकामो यदि सततं स्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥५॥