Minakshi Stotram

Mīnākṣīstotram

All 8 verses

Verse by verse

Verse 1

श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते श्रीनाथादिगुरुस्वरूपविभवे चिन्तामणीपीठिके श्रीवाणीगिरिजानुताङ्घ्रिकमले श्रीशाम्भवि श्रीशिवे मध्याह्ने मलयध्वजाधिपसुते मां पाहि मीनाम्बिके ॥1॥

Verse 2

चक्रस्थेऽचपले चराचरजगन्नाथे जगत्पूजिते आर्तालीवरदे नताभयकरे वक्षोजभारान्विते विद्ये वेदकलापमौलिविदिते विद्युल्लताविग्रहे मातः पूर्णसुधारसार्द्रहृदये मां पाहि मीनाम्बिके ॥2॥

Verse 3

कोटीराङ्गदरत्नकुण्डलधरे कोदण्डबाणाञ्चिते कोकाकारकुचद्वयोपरिलसत्प्रालम्बहाराञ्चिते शिञ्जन्नूपुरपादसारसमणीश्रीपादुकालङ्कृते मद्दारिद्र्यभुजङ्गगारुडखगे मां पाहि मीनाम्बिके ॥3॥

Verse 4

ब्रह्मेशाच्युतगीयमानचरिते प्रेतासनान्तस्थिते पाशोदङ्कुशचापबाणकलिते बालेन्दुचूडाञ्चिते बाले बालकुरङ्गलोलनयने बालार्ककोट्युज्ज्वले मुद्राराधितदैवते मुनिसुते मां पाहि मीनाम्बिके ॥4॥

Verse 5

गन्धर्वामरयक्षपन्नगनुते गङ्गाधरालिङ्गिते गायत्रीगरुडासने कमलजे सुश्यामले सुस्थिते खातीते खलदारुपावकशिखे खद्योतकोट्युज्ज्वले मन्त्राराधितदैवते मुनिसुते मां पाही मीनाम्बिके ॥5॥

Verse 6

नादे नारदतुम्बुराद्यविनुते नादान्तनादात्मिके नित्ये नीललतात्मिके निरुपमे नीवारशूकोपमे कान्ते कामकले कदम्बनिलये कामेश्वराङ्कस्थिते मद्विद्ये मदभीष्टकल्पलतिके मां पाहि मीनाम्बिके ॥6॥

Verse 7

वीणानादनिमीलितार्धनयने विस्रस्तचूलीभरे ताम्बूलारुणपल्लवाधरयुते ताटङ्कहारान्विते श्यामे चन्द्रकलावतंसकलिते कस्तूरिकाफालिके पूर्णे पूर्णकलाभिरामवदने मां पाहि मीनाम्बिके ॥7॥

Verse 8

शब्दब्रह्ममयी चराचरमयी ज्योतिर्मयी वाङ्मयी नित्यानन्दमयी निरञ्जनमयी तत्त्वंमयी चिन्मयी तत्त्वातीतमयी परात्परमयी मायामयी श्रीमयी सर्वैश्वर्यमयी सदाशिवमयी मां पाहि मीनाम्बिके ॥8॥