Shiva Keshadi Padanta Varnana Stotram
Śivakeśādipādāntavarṇanastotram
All 12 verses
Verse 1
देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य त्प्रांशुस्तम्बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥1॥
Verse 2
कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम् अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य ज्जाह्नव्याभं मृडानीकमितुरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम् ॥2॥
Verse 3
क्रुध्यद्गौरीप्रसादानतिसमयपदाङ्गुष्ठसङ्क्रान्तलाक्षा बिन्दुस्पर्धि स्मरारेः स्फटिकमणिदृषन्मग्नमाणिक्यशोभम् मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मास्तकं स्ता दस्तोकापत्तिकृत्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि ॥3॥
Verse 4
भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुग्बिम्बयोः स्निग्धवर्णो दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति सर्गस्थित्यन्तवृत्तिर्मयि समुपगतेऽतीव निर्वृत्तगर्वं शर्वाणीभर्तुरुच्चैर्युगलमथ दधद्विभ्रमं तद्भ्रुवोर्वः ॥4॥
Verse 5
युग्मे रुक्माब्जपिङ्गे ग्रह इव पिहिते द्राग्ययोः प्राग्दुहित्रा शैलस्य ध्वान्तनीलाम्बररचितबृहत्कञ्चुकोऽभूत्प्रपञ्चः ते त्रैनेत्रे पवित्रे त्रिदशवरघटामित्रजैत्रोग्रशस्त्रे नेत्रे नेत्रे भवेतां द्रुतमिह भवतामिन्द्रियाश्वान्नियन्तुम् ॥5॥
Verse 6
चण्डीवक्त्रार्पणेच्छोस्तदनु भगवतः पाण्डुरुक्पाण्डुगण्ड प्रोद्यत्कण्डूं विनेतुं वितनुत इव ये रत्नकोणैर्विघृष्टिम् चण्डार्चिर्मण्डलाभे सततनतजनध्वान्तखण्डातिशौण्डे चाण्डीशे ते श्रिये स्तामधिकमवनताखण्डले कुण्डले वः ॥6॥
Verse 7
खट्वाङ्गोदग्रपाणेः स्फुटविकटपुटो वक्त्ररन्ध्रप्रवेश प्रेप्सूदञ्चत्फणोरुश्वसदतिधवलाहीन्द्रशङ्कां दधानः युष्माकं कम्रवक्त्राम्बुरुहपरिलसत्कर्णिकाकारशोभः शश्वत्त्राणाय भूयादलमतिविमलोत्तुङ्गकोणः स घोणः ॥7॥
Verse 8
क्रुध्यत्यद्धा ययोः स्वां तनुमतिलसतोर्बिम्बतां लक्षयन्ती भर्त्रे स्पर्धातिनिघ्ना मुहुरितरवधूशङ्कया शैलकन्या युष्मांस्तौ शश्वदुच्चैरबहुलदशमीशर्वरीशातिशुभ्रा वव्यास्तां दिव्यसिन्धोः कमितुरवनमल्लोकपालौ कपोलौ ॥8॥
Verse 9
यो भासा भात्युपान्तस्थित इव निभृतं कौस्तुभो द्रष्टुमिच्छन् सोत्थस्नेहान्नितान्तं गलगतगरलं पत्युरुच्चैः पशूनाम् प्रोद्यन्प्रेम्णा यमार्द्रा पिबति गिरिसुता सम्पदः सातिरेका लोकाश्शोणीकृतान्ता यदधरमहसा सोऽधरो वो विधत्ताम् ॥9॥
Verse 10
अत्यर्थं राजते या वदनशशधरादुद्गलच्चारुवाणी पीयूषाम्भःप्रवाहप्रसरपरिलसत्फेनबिन्द्वावलीव देयात्सा दन्तपङ्क्तिश्चिरमिह दनुदायाददौवारिकस्य द्युत्या दीप्तेन्दुकुन्दच्छविरमलतरप्रोन्नताग्रा मुदं वः ॥10॥
Verse 11
न्यक्कुर्वन्नुर्वराभृन्निभघनसमयोध्दुष्टमेघौघघोषं स्फूर्जद्वार्ध्युत्थितोरुध्वनितमपि परब्रह्मभूतो गभीरः सुव्यक्तो व्यक्तमूर्तेः प्रकटितकरणः प्राणनाथस्य सत्याः प्रीत्या वः संविदध्यात्फलविकलमलं जन्म नादः स नादः ॥11॥
Verse 12
भासा यस्य त्रिलोकी लसति परिलसत्फेनबिन्द्वर्णवान्त र्व्यामग्नेवातिगौरस्तुलितसुरसरिद्वारिपूरप्रसारः पीनात्मा दन्तभाभिर्भृशमहहहकारातिभीमः सदेष्टां पुष्टां तुष्टिं कृषीष्ट स्फुटमिह भवतामट्टहासोऽष्टमूर्तेः ॥12॥