Devi Bhujanga Stotram
Devībhujaṅgastotram
All 28 verses
Verse 1
विरिञ्च्यादिभिः पञ्चभिर्लोकपालैः समूढे महानन्दपीठे निषण्णम् । धनुर्बाणपाशाङ्कुशप्रोतहस्तं महस्त्रैपुरं शंकराद्वैतमव्यात् ॥1॥
Verse 2
यदन्नादिभिः पञ्चभिः कोशजालैः शिरःपक्षपुच्छात्मकैरन्तरन्तः । निगूढे महायोगपीठे निषण्णं पुरारेरथान्तःपुरं नौमि नित्यम् ॥2॥
Verse 3
विरिञ्चादिरूपैः प्रपञ्चे विहृत्य स्वतन्त्रा यदा स्वात्मविश्रान्तिरेषा । तदा मानमातृप्रमेयातिरिक्तं परानन्दमीडे भवानि त्वदीयम् ॥3॥
Verse 4
विनोदाय चैतन्यमेकं विभज्य द्विधा देवि जीवः शिवश्रेति नाम्ना । शिवस्यापि जीवत्वमापादयन्ती पुनर्जीवमेनं शिवं वा करोषि ॥4॥
Verse 5
समाकुञ्च्य मूलं हृदि न्यस्य वायुं मनो भ्रूबिलं प्रापयित्वा निवृत्ताः । ततः सच्चिदानन्दरूपे पदे ते भवन्त्यम्ब जीवाः शिवत्वेन केचित् ॥5॥
Verse 6
शरीरेऽतिकष्टे रिपौ पुत्रवर्गे सदाभीतिमूले कलत्रे धने वा । न कश्चिद्विरज्यत्यहो देवि चित्रं कथं त्वत्कटाक्षं विना तत्त्वबोधः ॥6॥
Verse 7
शरीरे धनेऽपत्यवर्गे कलत्रे विरक्तस्य सद्देशिकादिष्टबुद्धेः । यदाकस्मिकं ज्योतिरानन्दरूपं समाधौ भवेत्तत्त्वमस्यम्ब सत्यम् ॥7॥
Verse 8
मृषान्यो मृषान्यः परो मिश्रमेनं परः प्राकृतं चापरो बुद्धिमात्रम् । प्रपञ्चं मिमीते मुनीनां गणोऽयं तदेतत्त्वमेवेति न त्वां जहीमः ॥8॥
Verse 9
निवृत्तिः प्रतिष्ठा च विद्या च शान्ति स्तथा शान्त्यतीतेति पञ्चीकृताभिः । कलाभिः परे पञ्चविंशात्मिकाभि स्त्वमेकैव सेव्या शिवाभिन्नरूपा ॥9॥
Verse 10
अगाधेऽत्र संसारपङ्के निमग्नं कलत्रादिभारेण खिन्नं नितान्तम् । महामोहपाशौघबद्धं चिरान्मां समुद्धर्तुमम्ब त्वमेकैव शक्ता ॥10॥
Verse 11
समारभ्य मूलं गतो ब्रह्मचक्रं भवद्दिव्यचक्रेश्वरीधामभाजः । महासिद्धिसंघातकल्पद्रुमाभा नवाप्याम्ब नादानुपास्ते च योगी ॥11॥
Verse 12
गणेशैर्ग्रहैरम्ब नक्षत्रपङ्क्त्या तथा योगिनीराशिपीठैरभिन्नम् । महाकालमात्मानमामृश्य लोकं विधत्से कृतिं वा स्थितिं वा महेशि ॥12॥
Verse 13
लसत्तारहारामतिस्वच्छचेलां वहन्तीं करे पुस्तकं चाक्षमालाम् । शरच्चन्द्रकोटिप्रभाभासुरां त्वां सकृद्भावयन्भारतीवल्लभः स्यात् ॥13॥
Verse 14
समुद्यत्सहस्रार्कबिम्बाभवक्त्रां स्वभासैव सिन्दूरिताजाण्डकोटिम् । धनुर्बाणपाशाङ्कुशान्धारयन्तीं स्मरन्तः स्मरं वापि संमोहयेयुः ॥14॥
Verse 15
मणिस्यूतताटङ्कशोणास्यबिम्बां हरित्पट्टवस्त्रां त्वगुल्लासिभूषाम् । हृदा भावयंस्तप्तहेमप्रभां त्वां श्रियो नाशयत्यम्ब चाञ्चल्यभावम् ॥15॥
Verse 16
महामन्त्रराजान्तबीजं पराख्यं स्वतो न्यस्तबिन्दु स्वयं न्यस्तहार्दम् । भवद्वक्त्रवक्षोजगुह्याभिधानं स्वरूपं सकृद्भावयेत्स त्वमेव ॥16॥
Verse 17
तथान्ये विकल्पेषु निर्विण्णचित्ता स्तदेकं समाधाय बिन्दुत्रयं ते । परानन्दसंधानसिन्धौ निमग्नाः पुनर्गर्भरन्ध्रं न पश्यन्ति धीराः ॥17॥
Verse 18
त्वदुन्मेषलीलानुबन्धाधिकारा न्विरिञ्च्यादिकांस्त्वद्गुणाम्भोधिबिन्दून् । भजन्तस्तितीर्षन्ति संसारसिन्धुं शिवे तावकीना सुसंभावनेयम् ॥18॥
Verse 19
कदा वा भवत्पादपोतेन तूर्णं भवाम्भोधिमुक्तीर्य पूर्णान्तरङ्गः । निमज्जन्तमेनं दुराशाविषाब्धौ समालोक्य लोकं कथं पर्युदास्से ॥19॥
Verse 20
कदावा हृषीकाणि साम्यं भजेयुः कदा वा न शत्रुर्न मित्रं भवानि । कदा वा दुराशाविषूचीविलोपः कदा वा मनो मे समूलं विनश्येत् ॥20॥
Verse 21
नमोवाकमाशास्महे देवि युष्म त्पदाम्भोजयुग्माय तिग्माय गौरि । विरिञ्च्यादिभास्वत्किरीटप्रतोली प्रदीपायमानप्रभाभास्वराय ॥21॥
Verse 22
कचे चन्द्ररेखं कुचे तारहारं करे स्वादुचापं शरे षट्पदौघम् । स्मरामि स्मरारेरभिप्रायमेकं मदाघूर्णनेत्रं मदीयं निधानम् ॥22॥
Verse 23
शरेष्वेव नासा धनुष्वेव जिह्वा जपापाटले लोचने ते स्वरूपे । त्वगेषा भवच्चन्द्रखण्डे श्रवो मे गुणे ते मनोवृत्तिरम्ब त्वयि स्यात् ॥23॥
Verse 24
जगत्कर्मधीरान्वचोधूतकीरान् कुचन्यस्तहारान्कृपासिन्धुपूरान् । भवाम्भोधिपारान्महापापदूरान् भजे वेदसाराञ्शिवप्रेमदारान् ॥24॥
Verse 25
सुधासिन्धुसारे चिदानन्दनीरे समुत्फुल्लनीपे सुरत्रान्तरीपे । मणिव्यूहसाले स्थिते हैमशाले मनोजारिवामे निषण्णं मनो मे ॥25॥
Verse 26
दृगन्ते विलोला सुगन्धीषुमाला प्रपञ्चेन्द्रजाला विपत्सिन्धुकूला । मुनिस्वान्तशाला नमल्लोकपाला हृदि प्रेमलोलामृतस्वादुलीला ॥26॥
Verse 27
जगज्जालमेतत्त्वयैवाम्ब सृष्टं त्वमेवाद्य यासीन्द्रियैरर्थजालम् । त्ववेकैव कर्त्री त्वमेकैव भोक्त्री न मे पुण्यपापे न मे बन्धमोक्षौ ॥27॥
Verse 28
इति प्रेमभारेण किञ्चिन्मयोक्तं न बुध्वैव तत्त्वं मदीयं त्वदीयं । विनोदाय बालस्य मौर्ख्यं हि मात स्तदेतत्प्रलापस्तुतिं मे गृहाण ॥28॥