Ganapati Stotram
Gaṇapatistotram
All 5 verses
Verse 1
सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं गृहीतपाशकाङ्कुशं वरप्रदाभयप्रदम् । चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं प्रफुल्लवारिजासनं भजामि सिन्धुराननम् ॥१॥
Verse 2
किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं प्रचण्डरत्नकङ्कणं प्रशोभिताङ्ङ्घ्रयष्टिकम् । प्रभातसूर्यसुन्दराम्बरद्वयप्रधारिणं सरलहेमनूपुरं प्रशोभिताङ्घ्रिपङ्कजम् ॥२॥
Verse 3
सुवर्णदण्डमण्डितप्रचण्डचारुचामरं गृहप्रतीर्णसुन्दरं युगक्षणं प्रमोदितम् । कवीन्द्रचित्तरञ्जकं महाविपत्तिभञ्जकं षडक्षरस्वरूपिणं भजेद्गजेन्द्ररूपिणम् ॥३॥
Verse 4
विरिञ्चिविष्णुवन्दितं विरूपलोचनस्तुतिं गिरीशदर्शनेच्छया समर्पितं पराशया । निरन्तरं सुरासुरैः सपुत्रवामलोचनैः महामखेष्टमिष्टकर्मसु भजामि तुन्दिलम् ॥४॥
Verse 5
मदौघलुब्धचञ्चलार्कमञ्जुगुञ्जितारवं प्रबुद्धचित्तरञ्जकं प्रमोदकर्णचालकम् । अनन्यभक्तिमानवं प्रचण्डमुक्तिदायकं नमामि नित्यमादरेण वक्रतुण्डनायकम् ॥५॥