Guru Paduka Stotram

Guru Pāduka Stotram

All 9 verses

Verse by verse

Verse 1

अनन्तसंसारसमुद्रतार- नौकायिताभ्यां गुरुभक्तिदाभ्याम् । वैराग्यसाम्राज्यदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥१॥

Verse 2

कवित्ववाराशिनिशाकराभ्यां दौर्भाग्यदावाम्बुदमालिकाभ्याम् । दूरीकृतानम्रविपत्तिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥२॥

Verse 3

नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः । मूकाश्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥३॥

Verse 4

नालीकनीकाशपदाहृताभ्यां नानाविमोहादिनिवारिकाभ्याम् । नमज्जनाभीष्टततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥४॥

Verse 5

नृपालिमौलिव्रजरत्नकान्ति- सरिद्विराजज्झषकन्यकाभ्याम् । नृपत्वदाभ्यां नतलोकपङ्क्तेः नमो नमः श्रीगुरुपादुकाभ्याम् ॥५॥

Verse 6

पापान्धकारार्कपरम्पराभ्यां तापत्रयाहीन्द्रखगेश्वराभ्याम् । जाड्याब्धिसंशोषणवाडवाभ्याम् नमो नमः श्रीगुरुपादुकाभ्याम् ॥६॥

Verse 7

शमादिषट्कप्रदवैभवाभ्यां समाधिदानव्रतदीक्षिताभ्याम् । रमाधवाङ्घ्रिस्थिरभक्तिदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥७॥

Verse 8

स्वार्चापराणामखिलेष्टदाभ्यां स्वाहासहायाक्षधुरन्धराभ्याम् । स्वान्ताच्छभावप्रदपूजनाभ्याम् नमो नमः श्रीगुरुपादुकाभ्याम् ॥८॥

Verse 9

कामादिसर्पव्रजगारुडाभ्यां विवेकवैराग्यनिधिप्रदाभ्याम् । बोधप्रदाभ्यां दृतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥९॥