Hanumat Pancharatnam

Hanumatpañcaratnam

All 5 verses

Verse by verse

Verse 1

वीताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम् । सीतापतिदूताद्यं वातात्मजमद्य भावये हृद्यम् ॥१॥

Verse 2

तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गम् । सञ्जीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥२॥

Verse 3

शम्बरवैरिशरातिगमम्बुजदलविपुललोचनोदारम् । कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठमेकमवलम्बे ॥३॥

Verse 4

दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः । दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥४॥

Verse 5

वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृक्षम् । दीनजनावनदीक्षं पवनतपः पाकपुञ्जमद्राक्षम् ॥५॥