Kashi Panchakam
Kāśīpañcakam
All 5 verses
Verse 1
मनोनिवृत्तिः परमोपशान्तिः सा तीर्थवर्या मणिकर्णिका च । ज्ञानप्रवाहा विमलादिगङ्गा सा काशिकाहं निजबोधरूपा ॥१॥
Verse 2
यस्यामिदं कल्पितमिन्द्रजालं चराचरं भाति मनोविलासम् । सच्चित्सुखैका परमात्मरूपा सा काशिकाहं निजबोधरूपा ॥२॥
Verse 3
कोशेषु पञ्चस्वधिराजमाना बुद्धिर्भवानी प्रतिदेहगेहम् । साक्षी शिवः सर्वगतोऽन्तरात्मा सा काशिकाहं निजबोधरूपा ॥३॥
Verse 4
काश्यां हि काश्यते काशी काशी सर्वप्रकाशिका । सा काशी विदिता येन तेन प्राप्ता हि काशिका ॥४॥
Verse 5
काशीक्षेत्रं शरीरं त्रिभुवनजननी व्यापिनी ज्ञानगङ्गा भक्तिः श्रद्धा गयेयं निजगुरुचरणध्यानयोगः प्रयागः । विश्वेशोऽयं तुरीयः सकलजनमनःसाक्षिभूतोऽन्तरात्मा देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति ॥५॥