Mantra Matrika Pushpamala Stavah
Mantramātṛkāpuṣpamālāstavaḥ
All 17 verses
Verse 1
कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि द्वीपे कल्पकवाटिकापरिवृते कादम्बवाट्युज्ज्वले रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमे चिन्तारत्नविनिर्मितं जननि ते सिह्मासनं भावये ॥1॥
Verse 2
एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्ये स्थितां बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां तां त्वां चन्द्रकलावतम्समकुटां चारुस्मितां भावये ॥2॥
Verse 3
ईशनादिपदं शिवैकफलदं रत्नासनं ते शुभं पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं कारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्पताम् ॥3॥
Verse 4
लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैः स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥4॥
Verse 5
ह्रीङ्काराङ्कितमन्त्रलक्षिततनो हेमाचलात्सञ्चितैः रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् मुक्तासन्ततियज्ञसूत्रममलं सौवर्णतन्तूत्भवं दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥5॥
Verse 6
हम्सैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां हिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदेकङ्कणे मञ्जीरौ मणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिं नासामौक्तिकमङ्गुलीयकटकौ काञ्चीमपि स्वीकुरु ॥6॥
Verse 7
सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं कस्तूरीतिलकञ्च फालफलके गोरोचनापत्रकम् गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥7॥
Verse 8
कल्हारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै र्जातीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः केतक्या करवीरकैर्बहुविधैः कॢप्ताः स्रजो मालिकाः सङ्कल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम् ॥8॥
Verse 9
हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलै र्यैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम् तानीमानि तवाम्ब कोमलतराण्यामोदलीला गृहा ण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपये ॥9॥
Verse 10
लक्ष्मीमुज्ज्वलयामि रत्ननिवहोत्भास्वत्त्तरे मन्दिरे मालारूपविलम्बितैर्मणिमयस्तम्भेषु सम्भावितैः चित्रैर्हाटकपुत्रिकाकरधृतैःगव्यैर्घृतैर्वर्धितै र्दिव्यैर्दीपगणैर्धिया गिरिसुते सन्तुष्टये कल्पताम् ॥10॥
Verse 11
ह्रीङ्कारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥11॥
Verse 12
सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥12॥
Verse 13
कन्याभिः कमनीयकान्तिभिरलङ्कारामलारार्तिका पात्रे मौक्तिकचित्रपङ्क्तिविलसद्कर्पूरदीपावलिः उतत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥13॥
Verse 14
लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसाद् इन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागव द्भावैराङ्गिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥14॥
Verse 15
ह्रीङ्कारत्रयसम्पुटेन मनुनोपास्ये त्रयीमौलिभि र्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके सल्लापाः स्तुतयः प्रदक्षिणशतं सञ्चार एवास्तु ते संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥15॥
Verse 16
श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः चित्ताम्भोरुहमण्डपे गिरिसुता नृत्तं विधत्तेरसा द्वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥16॥
Verse 17
इति गिरिवरपुत्रीपादराजीवभूषा भुवनममलयन्ती सूक्तिसौरभ्यसारैः शिवपदमकरन्दस्यन्दिनीयं निबद्धा मदयतु कविभृङ्गान्मातृकापुष्पमाला ॥17॥