Tripura Sundari Manasa Puja Stotram

Tripurasundarī Mānasa Pūjā Stotram

All 16 verses

Verse by verse

Verse 1

मम न भजनशक्तिः पादयोस्ते न भक्ति- र्न च विषयविरक्तिर्ध्यानयोगे न सक्तिः । इति मनसि सदाहं चिन्तयन्नाद्यशक्ते रुचिरवचनपुष्पैरर्चनं संचिनोमि ॥१॥

Verse 2

व्याप्तं हाटकविग्रहैर्जलचरैरारूढदेवव्रजैः पोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम् । आरक्तामृतसिन्धुमुद्धुरचलद्विचीचयव्याकुल- व्योमानं परिचिन्त्य सन्ततमहो चेतः कृतार्थीभव ॥२॥

Verse 3

तस्मिन्नुज्ज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः । उच्चैःशृङ्गनिषण्णदिव्यवनितावृन्दाननप्रोल्लस- द्गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे ॥३॥

Verse 4

जातीचम्पकपाटलादिसुमनःसौरभ्यसम्भावितं ह्रीङ्कारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम् । आविर्भूतसुगन्धिचन्दनवनं दृष्टिप्रियं नन्दनं चञ्चच्चञ्चलचञ्चरिकाचटुलं चेतश्चिरं चिन्तय ॥४॥

Verse 5

परिपतितपरागैः पाटलक्षोणिभागो विकसितकुसुमोच्चैः पीतचन्द्रार्करश्मिः । अलिशुकपिकराजीकूजितैः श्रोत्रहारी स्फुरतु हृदि मदीये नूनमुद्यानराजः ॥५॥

Verse 6

रम्यद्वारपुरप्रचारतमसां संहारकारिप्रभ स्फूर्जत्तोरणभारहारकमहाविस्तारहारद्युते । क्षोणीमण्डलहेमहारविलसत्संसारपारप्रद प्रोद्यद्भक्तमनोविहार कनकप्राकार तुभ्यं नमः ॥६॥

Verse 7

उद्यत्कान्तिकलापकल्पितनभःस्फूर्जद्वितानप्रभ सत्कृष्णागरुधूपवासितवियत्काष्ठान्तरे विश्रुतः । सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम् ॥७॥

Verse 8

क्वापि प्रोद्भटपद्मरागकिरणव्रातेन सन्ध्यायितं कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम् । मध्यालम्बिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि- न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् ॥८॥

Verse 9

उत्तुङ्गालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला- न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशङ्कया । नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते- र्वल्गावल्गितहस्तमस्तशिखरं कष्टैरितः प्राप्यते ॥९॥

Verse 10

मणिसदनसमुद्यत्कान्तिधारानुरक्ते वियति चरमसन्ध्याशङ्किनो भानुरथ्याः । शिथिलितगतकुप्यत्सूतहुङ्कारनादैः कथमपि मणिगेहादुच्चकैरुच्चलन्ति ॥१०॥

Verse 11

भक्त्या किं नु समर्पितानि बहुधा रत्नानि पाथोधिना किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् । आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते शम्भौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणया ॥११॥

Verse 12

विदूरमुक्तवाहनैर्विनम्रमौलिमण्डलै- र्निबद्धहस्तसम्पुटैः प्रयत्नसंयतेन्द्रियैः । विरिञ्चिविष्णुशङ्करादिभिर्मुदा तवाम्बिके प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः ॥१२॥

Verse 13

ध्वनन्मृदङ्गकाहलः प्रगीतकिंनरीगणः प्रनृत्तदिव्यकन्यकाः प्रवृत्तमङ्गलक्रमः । प्रकृष्टसेवकव्रजः प्रहृष्टभक्तमण्डलः मुदे ममास्तु सन्ततं त्वदीयरत्नमण्डपः ॥१३॥

Verse 14

प्रवेशनिर्गमाकुलैः स्वकृत्यरक्तमानसै- र्बहिस्थितामरावलीविधीयमानभक्तिभिः । विचित्रवस्त्रभूषणैरुपेतमङ्गनाजनैः सदा करोतु मङ्गलं ममेह रत्नमण्डपः ॥१४॥

Verse 15

सुवर्णरत्नभूषितैर्विचित्रवस्त्रधारिभि- र्गृहीतहेमयष्टिभिर्निरुद्धसर्वदैवतैः । असंख्यसुन्दरीजनैः पुरस्थितैरधिष्ठितो मदीयमेतु मानसं त्वदीयतुङ्गतोरणः ॥१५॥

Verse 16

इन्द्रादींश्च दिगीश्वरान्सहपरिवारानथो सायुधा- न्योषिद्रूपधरान्स्वदिक्षु निहितान्संचिन्त्य हृत्पङ्कजे । शङ्खे श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मर- न्कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे ॥१६॥