Dakshinamurti Varnamala Stotram

Dakṣiṇāmūrti Varṇamālā Stotram

All 25 verses

Verse by verse

Verse 1

ॐमित्येतद्यस्य बुधैर्नाम गृहीतं यद्भासेदं भाति समस्तं वियदादि । यस्याज्ञातः स्वस्वपदस्था विधिमुख्या- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥1॥

Verse 2

नम्राङ्गाणां भक्तिमतां यः पुरुषार्था- न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः । पादाम्भोजाधस्तनितापस्मृतिमीशं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥2॥

Verse 3

मोहध्वस्त्यै वैणिकवैयासिकिमुख्याः संविन्मुद्रापुस्तकवीणाक्षगुणान्यम् । हस्ताम्भोजैर्बिभ्रतमाराधितवन्त- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥3॥

Verse 4

भद्रारूढं भद्रदमाराधयितृणां भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति । आदित्या यं वाञ्छितसिद्ध्यै करुणाब्धिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥4॥

Verse 5

गर्भान्तःस्थाः प्राणिन एते भवपाश- च्छेदे दक्षं निश्चितवन्तः शरणं यम् । आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥5॥

Verse 6

वक्त्रं धन्याः संसृतिवार्धेरतिमात्रा- द्भीताः सन्तः पूर्णशशाङ्कद्युति यस्य । सेवेन्तेऽध्यासीनमनन्तं वटमूलं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥6॥

Verse 7

तेजःस्तोमैरङ्गदसंघट्टितभास्व- न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः । तेजोमूर्तिं खानिलतेजःप्रमुखाब्धिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥7॥

Verse 8

दध्याज्यादिद्रव्यककर्माण्यखिलानि त्यक्त्वा काङ्क्षा कर्मफलेष्वत्र करोति । यज्जिज्ञासां रूपफलार्थी क्षितिदेव- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥8॥

Verse 9

क्षिप्रं लोके यं भजमानः पृथुपुण्यः प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः । प्रत्यग्भूतं ब्रह्म परं सन्रमते य- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥9॥

Verse 10

णानेत्येवं यन्मनुमध्यस्थितवर्णा- न्भक्ताः काले वर्णगृहीत्यै प्रजपन्तः । मोदन्ते संप्राप्तसमस्तश्रुतितन्त्रा- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥10॥

Verse 11

मूर्तिश्छायानिर्जितमन्दाकिनिकुन्द- प्रालेयाम्भोराशिसुधाभूतिसुरेभा । यस्याभ्राभा हासविधौ दक्षशिरोधि- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥11॥

Verse 12

तप्तस्वर्णच्छायजटाजूटकटाह- प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम् । नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥12॥

Verse 13

येन ज्ञातेनैव समस्तं विदितं स्या- द्यस्मादन्यद्वस्तु जगत्यां शशश‍ृङ्गम् । यं प्राप्तानां नास्ति परं प्राप्यमनादिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥13॥

Verse 14

मत्तो मारो यस्य ललाटाक्षिभवाग्नि- स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः । तद्भस्मासीद्यस्य सुजातः पटवास- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥14॥

Verse 15

ह्यम्भोराशौ संसृतिरूपे लुठतां त- त्पारं गन्तुं यत्पदभक्तिर्दृढनौका । सर्वाराध्यं सर्वगमानन्दपयोनिधिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥15॥

Verse 16

मेधावी स्यादिन्दुवतंसं धृतवीणं कर्पूराभं पुस्तकहस्तं कमलाक्षम् । चित्ते ध्यायन्यस्य वपुर्द्राङ्निमिषार्धं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥16॥

Verse 17

धाम्नां धाम प्रौढरुचीनां परमं य- त्सूर्यादीनां यस्य स हेतुर्जगदादेः । एतावान्यो यस्य न सर्वेश्वरमीड्यं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥17॥

Verse 18

प्रत्याहारप्राणनिरोधादिसमर्थै- र्भक्तैर्दान्तैः संयतचित्तैर्यतमानैः । स्वात्मत्वेन ज्ञायत एव त्वरया य- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥18॥

Verse 19

ज्ञांशीभूतान्प्राणिन एतान्फलदाता चित्तान्तःस्थः प्रेरयति स्वे सकलेऽपि । कृत्ये देवः प्राक्तनकर्मानुसरः सं- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥19॥

Verse 20

प्रज्ञामात्रं प्रापितसंबिन्निजभक्तं प्राणाक्षादेः प्रेरयितारं प्रणवार्थम् । प्राहुः प्राज्ञा विदितानुश्रवतत्त्वा- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥20॥

Verse 21

यस्यांज्ञानादेव नृणां संसृतिबोधो यस्य ज्ञानादेव विमोक्षो भवतीति । स्पष्टं ब्रूते वेदशिरो देशिकमाद्यं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥21॥

Verse 22

छन्नेऽविद्यारूपपटेनैव च विश्वं यत्राध्यस्तं जीवपरेशत्वमपीदम् । भानोर्भानुष्वम्बुवदस्ताखिलभेदं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥22॥

Verse 23

स्वापस्वप्नौ जाग्रदवस्थापि न यत्र प्राणश्वेतः सर्वगतो यः सकलात्मा । कूटस्थो यः केवलसच्चित्सुखरूप- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥23॥

Verse 24

हा हेत्येवं विस्मयमीयुर्मुनिमुख्या ज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः । प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥24॥

Verse 25

यैषा रम्यैर्मत्तमयूराभिधवृत्तै- रादौ क्लृप्ता यन्मनुवर्णैर्मुनिभङ्गी । तामेवैतां दक्षिणवक्त्रः कृपयासा- वूरीकुर्याद्देशिकसम्राट् परमात्मा ॥25॥