Shivananda Lahari
Śivānandalaharī
All 100 verses
Verse 1
कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥1॥
Verse 2
गलन्ती शम्भो त्वच्चरितसरितः किल्बिषरजो दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम् दिशन्ती संसारभ्रमणपरितापोपशमनं वसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी ॥2॥
Verse 3
त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं जटाभारोदारं चलदुरगहारं मृगधरम् महादेवं देवं मयि सदयभावं पशुपतिं चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे ॥3॥
Verse 4
सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् हरिब्रह्मादीनामपि निकटभाजामसुलभं चिरं याचे शम्भो शिव तव पदाम्भोजभजनम् ॥4॥
Verse 5
स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ पुराणे मन्त्रे वा स्तुतिनटनहास्येष्वचतुरः कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते पशुं मां सर्वज्ञ प्रथितकृपया पालय विभो ॥5॥
Verse 6
घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचलः पटो वा तन्तुर्वा परिहरति किं घोरशमनम् वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा पदाम्भोजं शम्भोर्भज परमसौख्यं व्रज सुधीः ॥6॥
Verse 7
मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे परग्रन्थान् कैर्वा परमशिव जाने परमतः ॥7॥
Verse 8
यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् तथा देवभ्रान्त्या भजति भवदन्यं जडजनो महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥8॥
Verse 9
गभीरे कासारे विशति विजने घोरविपिने विशाले शैले च भ्रमति कुसुमार्थं जडमतिः समर्प्यैकं चेतः सरसिजमुमानाथ भवते सुखेनावस्थातुं जन इह न जानाति किमहो ॥9॥
Verse 10
नरत्वं देवत्वं नगवनमृगत्वं मशकता पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥10॥
Verse 11
वटुर्वा गेही वा यतिरपि जटी वा तदितरो नरो वा यः कश्चिद्भवतु भव किं तेन भवति यदीयं हृत्पद्मं यदि भवदधीनं पशुपते तदीयस्त्वं शम्भो भवसि भवभारं च वहसि ॥11॥
Verse 12
गुहायां गेहे वा बहिरपि वने वाऽद्रिशिखरे जले वा वह्नौ वा वसतु वसतेः किं वद फलम् सदा यस्यैवान्तःकरणमपि शम्भो तव पदे स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥12॥
Verse 13
असारे संसारे निजभजनदूरे जडधिया भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् मदन्यः को दीनस्तव कृपणरक्षातिनिपुण स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥13॥
Verse 14
प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥14॥
Verse 15
उपेक्षा नो चेत् किं न हरसि भवद्ध्यानविमुखां दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् शिरस्तद्वैधात्रं न न खलु सुवृत्तं पशुपते कथं वा निर्यत्नं करनखमुखेनैव लुलितम् ॥15॥
Verse 16
विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् विचारः को वा मां विशद कृपया पाति शिव ते कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥16॥
Verse 17
फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो प्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगलम् कथं पश्येयं मां स्थगयति नमस्सम्भ्रमजुषां निलिम्पानां श्रेणिर्निजकनकमाणिक्यमकुटैः ॥17॥
Verse 18
त्वमेको लोकानां परमफलदो दिव्यपदवीं वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती कदा वा मद्रक्षां वहसि करुणापूरितदृशा ॥18॥
Verse 19
दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके दुरन्ते संसारे दुरितनिलये दुःखजनके मदायासं किं न व्यपनयसि कस्योपकृतये वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥19॥
Verse 20
सदा मोहाटव्यां चरति युवतीनां कुचगिरौ नटत्याशाशाखास्वटति झटिति स्वैरमभितः कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलं दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥20॥
Verse 21
धृतिस्तम्भाधारां दृढगुणनिबद्धां सगमनां विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो ॥21॥
Verse 22
प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे प्रवेशोद्युक्तः सन् भ्रमति बहुधा तस्करपते इमं चेतश्चोरं कथमिह सहे शङ्कर विभो तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥22॥
Verse 23
करोमि त्वत्पूजां सपदि सुखदो मे भव विभो विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति पुनश्च त्वां द्रष्टुं दिवि भुवि वहन् पक्षिमृगता मदृष्ट्वा तत्खेदं कथमिह सहे शङ्कर विभो ॥23॥
Verse 24
कदा वा कैलासे कनकमणिसौधे सह गणै र्वसन् शम्भोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः विभो साम्ब स्वामिन् परमशिव पाहीति निगदन् विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ॥24॥
Verse 25
स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां गणानां केलीभिर्मदकलमहोक्षस्य ककुदि स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ॥25॥
Verse 26
कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलं गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् समाश्लिष्याघ्राय स्फुटजलजगन्धान् परिमला नलभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥26॥
Verse 27
करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ गृहस्थे स्वर्भूजाऽमरसुरभिचिन्तामणिगणे शिरस्स्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ॥27॥
Verse 28
सारूप्यं तव पूजने शिव महादेवेति सङ्कीर्तने सामीप्यं शिवभक्तिधुर्यजनतासाङ्गत्यसम्भाषणे सालोक्यं च चराचरात्मकतनुध्याने भवानीपते सायुज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहम् ॥28॥
Verse 29
त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां शम्भो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥29॥
Verse 30
वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता गन्धे गन्धवहात्मताऽन्नपचने बर्हिर्मुखाध्यक्षता पात्रे काञ्चनगर्भतास्ति मयि चेद् बालेन्दुचूडामणे शुश्रूषां करवाणि ते पशुपते स्वामिन् त्रिलोकीगुरो ॥30॥
Verse 31
नालं वा परमोपकारकमिदं त्वेकं पशूनां पते पश्यन् कुक्षिगतान् चराचरगणान् बाह्यस्थितान् रक्षितुम् सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥31॥
Verse 32
ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया दृष्टः किं च करे धृतः करतले किं पक्वजम्बूफलम् जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः किं ते नीलमणिर्विभूषणमयं शम्भो महात्मन् वद ॥32॥
Verse 33
नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते का वा मुक्तिरितः कुतो भवति चेत् किं प्रार्थनीयं तदा ॥33॥
Verse 34
किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शम्भो भव द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥34॥
Verse 35
योगक्षेमधुरन्धरस्य सकलश्रेयःप्रदोद्योगिनो दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया शम्भो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥35॥
Verse 36
भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम् सत्त्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वहन् पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥36॥
Verse 37
आम्नायाम्बुधिमादरेण सुमनस्सङ्घाः समुद्यन्मनो मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥37॥
Verse 38
प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः सोमः सद्गुणसेवितो मृगधरः पूर्णस्तमोमोचकः चेतः पुष्करलक्षितो भवति चेदानन्दपाथोनिधिः प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥38॥
Verse 39
धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृताः ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥39॥
Verse 40
धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते दुर्भिक्षान्मम सेवकस्य भगवन् विश्वेश भीतिः कुतः ॥40॥
Verse 41
पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युञ्जय स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ॥41॥
Verse 42
गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः विद्यावस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥42॥
Verse 43
मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय स्तान् हत्वा मृगयाविनोदरुचितालाभं च सम्प्राप्स्यसि ॥43॥
Verse 44
करलग्नमृगः करीन्द्रभङ्गो घनशार्दूलविखण्डनोऽस्तजन्तुः गिरिशो विशदाकृतिश्च चेतः कुहरे पञ्चमुखोस्ति मे कुतो भीः ॥44॥
Verse 45
छन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते चेतःपक्षिशिखामणे त्यज वृथासञ्चारमन्यैरलं नित्यं शङ्करपादपद्मयुगलीनीडे विहारं कुरु ॥45॥
Verse 46
आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै राधौतेपि च पद्मरागललिते हंसव्रजैराश्रिते नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥46॥
Verse 47
शम्भुध्यानवसन्तसङ्गिनि हृदारामेऽघजीर्णच्छदाः स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः दीप्यन्ते गुणकोरका जपवचःपुष्पाणि सद्वासना ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥47॥
Verse 48
नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासनाविष्कृतम् शम्भुध्यानसरोवरं व्रज मनो हंसावतंस स्थिरं किं क्षुद्राश्रयपल्वलभ्रमणसञ्जातश्रमं प्राप्स्यसि ॥48॥
Verse 49
आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता उच्चैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥49॥
Verse 50
सन्ध्यारम्भविजृम्भितं श्रुतिशिरःस्थानान्तराधिष्ठितं सप्रेमभ्रमराभिराममसकृत् सद्वासनाशोभितम् भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् ॥50॥
Verse 51
भृङ्गीच्छानटनोत्कटः करिमदग्राही स्फुरन्माधवा ह्लादो नादयुतो महासितवपुः पञ्चेषुणा चादृतः सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः ॥51॥
Verse 52
कारुण्यामृतवर्षिणं घनविपद्ग्रीष्मच्छिदाकर्मठं विद्यासस्यफलोदयाय सुमनःसंसेव्यमिच्छाकृतिम् नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं शम्भो वाञ्छति नीलकन्धर सदा त्वां मे मनश्चातकः ॥52॥
Verse 53
आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता ऽनुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥53॥
Verse 54
सन्ध्या घर्मदिनात्ययो हरिकराघातप्रभूतानक ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे ॥54॥
Verse 55
आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते विद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने सम्यक्ताण्डवसम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥55॥
Verse 56
नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे सत्यायादिकुटुम्बिने मुनिमनः प्रत्यक्षचिन्मूर्तये मायासृष्टजगत्त्रयाय सकलाम्नायान्तसञ्चारिणे सायन्ताण्डवसम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥56॥
Verse 57
नित्यं स्वोदरपूरणाय सकलानुद्दिश्य वित्ताशया व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ॥57॥
Verse 58
एको वारिजबान्धवः क्षितिनभोव्याप्तं तमोमण्डलं भित्त्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः वेद्यः किन्न भवस्यहो घनतरं कीदृग्भवेन्मत्तम स्तत्सर्वं व्यपनीय मे पशुपते साक्षात् प्रसन्नो भव ॥58॥
Verse 59
हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ॥59॥
Verse 60
रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो भीतः स्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम् दीपं सन्तमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा चेतः सर्वभयापहं व्रज सुखं शम्भोः पदाम्भोरुहम् ॥60॥
Verse 61
अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥61॥
Verse 62
आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं वाचाशङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥62॥
Verse 63
मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते किञ्चिद्भक्षितमांसशेषकबलं नव्योपहारायते भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥63॥
Verse 64
वक्षस्ताडनमन्तकस्य कठिनापस्मारसम्मर्दनं भूभृत्पर्यटनं नमत्सुरशिरःकोटीरसङ्घर्षणम् कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य किं वोचितं मच्चेतोमणिपादुकाविहरणं शम्भो सदाङ्गीकुरु ॥64॥
Verse 65
वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥65॥
Verse 66
क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जना यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् शम्भो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥66॥
Verse 67
बहुविधपरितोषबाष्पपूर स्फुटपुलकाङ्कितचारुभोगभूमिम् चिरपदफलकाङ्क्षिसेव्यमानां परमसदाशिवभावनां प्रपद्ये ॥67॥
Verse 68
अमितमुदमृतं मुहुर्दुहन्तीं विमलभवत्पदगोष्ठमावसन्तीम् सदय पशुपते सुपुण्यपाकां मम परिपालय भक्तिधेनुमेकाम् ॥68॥
Verse 69
जडता पशुता कलङ्किता कुटिलचरत्वं च नास्ति मयि देव अस्ति यदि राजमौले भवदाभरणस्य नास्मि किं पात्रम् ॥69॥
Verse 70
अरहसि रहसि स्वतन्त्रबुद्ध्या वरिवसितुं सुलभः प्रसन्नमूर्तिः अगणितफलदायकः प्रभुर्मे जगदधिको हृदि राजशेखरोऽस्ति ॥70॥
Verse 71
आरूढभक्तिगुणकुञ्चितभावचाप युक्तैः शिवस्मरणबाणगणैरमोघैः निर्जित्य किल्बिषरिपून् विजयी सुधीन्द्रः सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥71॥
Verse 72
ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशं भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः दिव्याश्रितं भुजगभूषणमुद्वहन्ति ये पादपद्ममिह ते शिव ते कृतार्थाः ॥72॥
Verse 73
भूदारतामुदवहद्यदपेक्षया श्री भूदार एव किमतः सुमते लभस्व केदारमाकलितमुक्तिमहौषधीनां पादारविन्दभजनं परमेश्वरस्य ॥73॥
Verse 74
आशापाशक्लेशदुर्वासनादि भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः आशाशाटीकस्य पादारविन्दं चेतःपेटीं वासितां मे तनोतु ॥74॥
Verse 75
कल्याणिनं सरसचित्रगतिं सवेगं सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् चेतस्तुरङ्गमधिरुह्य चर स्मरारे नेतः समस्तजगतां वृषभाधिरूढ ॥75॥
Verse 76
भक्तिर्महेशपदपुष्करमावसन्ती कादम्बिनीव कुरुते परितोषवर्षम् सम्पूरितो भवति यस्य मनस्त्तटाक स्तज्जन्मसस्यमखिलं सफलं च नाऽन्यत् ॥76॥
Verse 77
बुद्धिः स्थिरा भवितुमीश्वरपादपद्म सक्ता वधूर्विरहिणीव सदा स्मरन्ती सद्भावनास्मरणदर्शनकीर्तनादि सम्मोहितेव शिवमन्त्रजपेन विन्ते ॥77॥
Verse 78
सदुपचारविधिष्वनुबोधितां सविनयां सुहृदं समुपाश्रिताम् मम समुद्धर बुद्धिमिमां प्रभो वरगुणेन नवोढवधूमिव ॥78॥
Verse 79
नित्यं योगिमनः सरोजदलसञ्चारक्षमस्त्वत्क्रमः शम्भो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥79॥
Verse 80
एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु प्रायः सत्सु शिलातलेषु नटनं शम्भो किमर्थं तव ॥80॥
Verse 81
कञ्चित्कालमुमामहेश भवतः पादारविन्दार्चनैः कञ्चिद्ध्यानसमाधिभिश्च नतिभिः कञ्चित्कथाकर्णनैः कञ्चित् कञ्चिदवेक्षणैश्च नुतिभिः कञ्चिद्दशामीदृशीं यः प्राप्नोति मुदा त्वदर्पितमना जीवन् स मुक्तः खलु ॥81॥
Verse 82
बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ त्वत्पादे नयनार्पणं च कृतवान् त्वद्देहभागो हरिः पूज्यात्पूज्यतरः स एव हि न चेत् को वा तदन्योऽधिकः ॥82॥
Verse 83
जननमृतियुतानां सेवया देवतानां न भवति सुखलेशः संशयो नास्ति तत्र अजनिममृतरूपं साम्बमीशं भजन्ते य इह परमसौख्यं ते हि धन्या लभन्ते ॥83॥
Verse 84
शिव तव परिचर्यासन्निधानाय गौर्या भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये सकलभुवनबन्धो सच्चिदानन्दसिन्धो सदय हृदयगेहे सर्वदा संवस त्वम् ॥84॥
Verse 85
जलधिमथनदक्षो नैव पातालभेदी न च वनमृगयायां नैव लुब्धः प्रवीणः अशनकुसुमभूषावस्त्रमुख्यां सपर्यां कथय कथमहं ते कल्पयानीन्दुमौले ॥85॥
Verse 86
पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥86॥
Verse 87
अशनं गरलं फणी कलापो वसनं चर्म च वाहनं महोक्षः मम दास्यसि किं किमस्ति शम्भो तव पादाम्बुजभक्तिमेव देहि ॥87॥
Verse 88
यदा कृताम्भोनिधिसेतुबन्धनः करस्थलाधःकृतपर्वताधिपः भवानि ते लङ्घितपद्मसम्भवः तदा शिवार्चास्तवभावनक्षमः ॥88॥
Verse 89
नतिभिर्नुतिभिस्त्वमीश पूजा विधिभिर्ध्यानसमाधिभिर्न तुष्टः धनुषा मुसलेन चाश्मभिर्वा वद ते प्रीतिकरं तथा करोमि ॥89॥
Verse 90
वचसा चरितं वदामि शम्भो रहमुद्योगविधासु तेऽप्रसक्तः मनसाकृतिमीश्वरस्य सेवे शिरसा चैव सदाशिवं नमामि ॥90॥
Verse 91
आद्याऽविद्या हृद्गता निर्गतासी द्विद्या हृद्या हृद्गता त्वत्प्रसादात् सेवे नित्यं श्रीकरं त्वत्पदाब्जं भावे मुक्तेर्भाजनं राजमौले ॥91॥
Verse 92
दूरीकृतानि दुरितानि दुरक्षराणि दौर्भाग्यदुःखदुरहङ्कृतिदुर्वचांसि सारं त्वदीयचरितं नितरां पिबन्तं गौरीश मामिह समुद्धर सत्कटाक्षैः ॥92॥
Verse 93
सोमकलाधरमौलौ कोमलघनकन्धरे महामहसि स्वामिनि गिरिजानाथे मामकहृदयं निरन्तरं रमताम् ॥93॥
Verse 94
सा रसना ते नयने तावेव करौ स एव कृतकृत्यः या ये यौ यो भर्गं वदतीक्षेते सदार्चतः स्मरति ॥94॥
Verse 95
अतिमृदुलौ मम चरणा वतिकठिनं ते मनो भवानीश इति विचिकित्सां सन्त्यज शिव कथमासीद्गिरौ तथा वेशः ॥95॥
Verse 96
धैर्याङ्कुशेन निभृतं रभसादाकृष्य भक्तिशृङ्खलया पुरहर चरणालाने हृदयमदेभं बधान चिद्यन्त्रैः ॥96॥
Verse 97
प्रचरत्यभितः प्रगल्भवृत्त्या मदवानेष मनःकरी गरीयान् परिगृह्य नयेन भक्तिरज्ज्वा परम स्थाणुपदं दृढं नयामुम् ॥97॥
Verse 98
सर्वालङ्कारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥98॥
Verse 99
इदं ते युक्तं वा परमशिव कारुण्यजलधे गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ कथं शम्भो स्वामिन् कथय मम वेद्योऽसि पुरतः ॥99॥
Verse 100
स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः स्तुत्यानां गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव द्धूतास्त्वां विदुरुत्तमोत्तमफलं शम्भो भवत्सेवकाः ॥100॥