Subrahmanya Bhujangam

Subrahmaṇya Bhujaṅgam

All 33 verses

Verse by verse

Verse 1

सदा बालरूपाऽपि विघ्नाद्रिहन्त्री महादन्तिवक्त्राऽपि पञ्चास्यमान्या । विधीन्द्रादिमृग्या गणेशाभिधा मे विधत्तां श्रियं काऽपि कल्याणमूर्तिः ॥1॥

Verse 2

न जानामि शब्दं न जानामि चार्थं न जानामि पद्यं न जानामि गद्यम् । चिदेका षडास्या हृदि द्योतते मे मुखान्निःसरन्ते गिरश्चापि चित्रम् ॥2॥

Verse 3

मयूराधिरूढं महावाक्यगूढं मनोहारिदेहं महच्चित्तगेहम् । महीदेवदेवं महावेदभावं महादेवबालं भजे लोकपालम् ॥3॥

Verse 4

यदा सन्निधानं गता मानवा मे भवाम्भोधिपारं गतास्ते तदैव । इति व्यञ्जयन्सिन्धुतीरे य आस्ते तमीडे पवित्रं पराशक्तिपुत्रम् ॥4॥

Verse 5

यथाब्धेस्तरङ्गा लयं यान्ति तुङ्गा- स्तथैवापदः सन्निधौ सेवतां मे । इतीवोर्मिपङ्क्तीर्नृणां दर्शयन्तं सदा भावये हृत्सरोजे गुहं तम् ॥5॥

Verse 6

गिरौ मन्निवासे नरा येऽधिरूढा- स्तदा पर्वते राजते तेऽधिरूढाः । इतीव ब्रुवन्गन्धशैलाधिरूढः स देवो मुदे मे सदा षण्मुखोऽस्तु ॥6॥

Verse 7

महाम्भोधितीरे महापापचोरे मुनीन्द्रानुकूले सुगन्धाख्यशैले । गुहायां वसन्तं स्वभासा लसन्तं जनार्तिं हरन्तं श्रयामो गुहं तम् ॥7॥

Verse 8

लसत्स्वर्णगेहे नृणां कामदोहे सुमस्तोमसञ्छन्नमाणिक्यमञ्चे । समुद्यत्सहस्रार्कतुल्यप्रकाशं सदा भावये कार्तिकेयं सुरेशम् ॥8॥

Verse 9

रणद्धंसके मञ्जुलेऽत्यन्तशोणे मनोहारिलावण्यपीयूषपूर्णे । मनःषट्पदो मे भवक्लेशतप्तः सदा मोदतां स्कन्द ते पादपद्मे ॥9॥

Verse 10

सुवर्णाभदिव्याम्बरैर्भासमानां क्वणत्किङ्किणीमेखलाशोभमानाम् । लसद्धेमपट्टेन विद्योतमानां कटिं भावये स्कन्द ते दीप्यमानाम् ॥10॥

Verse 11

पुलिन्देशकन्याघनाभोगतुङ्ग- स्तनालिङ्गनासक्तकाश्मीररागम् । नमस्याम्यहं तारकारे तवोरः स्वभक्तावने सर्वदा सानुरागम् ॥11॥

Verse 12

विधौ कॢप्तदण्डान् स्वलीलाधृताण्डा- न्निरस्तेभशुण्डान् द्विषत्कालदण्डान् । हतेन्द्रारिषण्डाञ्जगत्त्राणशौण्डान् सदा ते प्रचण्डान् श्रये बाहुदण्डान् ॥12॥

Verse 13

सदा शारदाः षण्मृगाङ्का यदि स्युः समुद्यन्त एव स्थिताश्चेत्समन्तात् । सदा पूर्णबिम्बाः कलङ्कैश्च हीना- स्तदा त्वन्मुखानां ब्रुवे स्कन्द साम्यम् ॥13॥

Verse 14

स्फुरन्मन्दहासैः सहंसानि चञ्च- त्कटाक्षावलीभृङ्गसङ्घोज्ज्वलानि । सुधास्यन्दिबिम्बाधराणीशसूनो तवालोकये षण्मुखाम्भोरुहाणि ॥14॥

Verse 15

विशालेषु कर्णान्तदीर्घेष्वजस्रं दयास्यन्दिषु द्वादशस्वीक्षणेषु । मयीषत्कटाक्षः सकृत्पातितश्चे- द्भवेत्ते दयाशील का नाम हानिः ॥15॥

Verse 16

सुताङ्गोद्भवो मेऽसि जीवेति षड्धा जपन्मन्त्रमीशो मुदा जिघ्रते यान् । जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥16॥

Verse 17

स्फुरद्रत्नकेयूरहाराभिराम- श्चलत्कुण्डलश्रीलसद्गण्डभागः । कटौ पीतवासाः करे चारुशक्तिः पुरस्तान्ममास्तां पुरारेस्तनूजः ॥17॥

Verse 18

इहायाहि वत्सेति हस्तान्प्रसार्या- ह्वयत्यादराच्छङ्करे मातुरङ्कात् । समुत्पत्य तातं श्रयन्तं कुमारं हराश्लिष्टगात्रं भजे बालमूर्तिम् ॥18॥

Verse 19

कुमारेशसूनो गुह स्कन्द सेना- पते शक्तिपाणे मयूराधिरूढ । पुलिन्दात्मजाकान्त भक्तार्तिहारिन् प्रभो तारकारे सदा रक्ष मां त्वम् ॥19॥

Verse 20

प्रशान्तेन्द्रिये नष्टसंज्ञे विचेष्टे कफोद्गारिवक्त्रे भयोत्कम्पिगात्रे । प्रयाणोन्मुखे मय्यनाथे तदानीं द्रुतं मे दयालो भवाग्रे गुह त्वम् ॥20॥

Verse 21

कृतान्तस्य दूतेषु चण्डेषु कोपा- द्दह च्छिन्द्धि भिन्द्धीति मां तर्जयत्सु । मयूरं समारुह्य मा भैरिति त्वं पुरः शक्तिपाणिर्ममायाहि शीघ्रम् ॥21॥

Verse 22

प्रणम्यासकृत्पादयोस्ते पतित्वा प्रसाद्य प्रभो प्रार्थयेऽनेकवारम् । न वक्तुं क्षमोऽहं तदानीं कृपाब्धे न कार्यान्तकाले मनागप्युपेक्षा ॥22॥

Verse 23

सहस्राण्डभोक्ता त्वया शूरनामा हतस्तारकः सिंहवक्त्रश्च दैत्यः । ममान्तर्हृदिस्थं मनःक्लेशमेकं न हंसि प्रभो किं करोमि क्व यामि ॥23॥

Verse 24

अहं सर्वदा दुःखभारावसन्नो भवान्दीनबन्धुस्त्वदन्यं न याचे । भवद्भक्तिरोधं सदा कॢप्तबाधं ममाधिं द्रुतं नाशयोमासुत त्वम् ॥24॥

Verse 25

अपस्मारकुष्ठक्षयार्शः प्रमेह- ज्वरोन्मादगुल्मादिरोगा महान्तः । पिशाचाश्च सर्वे भवत्पत्रभूतिं विलोक्य क्षणात्तारकारे द्रवन्ते ॥25॥

Verse 26

दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्ति- र्मुखे मे पवित्रं सदा तच्चरित्रम् । करे तस्य कृत्यं वपुस्तस्य भृत्यं गुहे सन्तु लीना ममाशेषभावाः ॥26॥

Verse 27

मुनीनामुताहो नृणां भक्तिभाजा- मभीष्टप्रदाः सन्ति सर्वत्र देवाः । नृणामन्त्यजानामपि स्वार्थदाने गुहाद्देवमन्यं न जाने न जाने ॥27॥

Verse 28

कलत्रं सुता बन्धुवर्गः पशुर्वा नरो वाथ नारि गृहे ये मदीयाः । यजन्तो नमन्तः स्तुवन्तो भवन्तं स्मरन्तश्च ते सन्तु सर्वे कुमार ॥28॥

Verse 29

मृगाः पक्षिणो दंशका ये च दुष्टा- स्तथा व्याधयो बाधका ये मदङ्गे । भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे विनश्यन्तु ते चूर्णितक्रौञ्चशैल ॥29॥

Verse 30

जनित्री पिता च स्वपुत्रापराधं सहेते न किं देवसेनाधिनाथ । अहं चातिबालो भवान् लोकतातः क्षमस्वापराधं समस्तं महेश ॥30॥

Verse 31

नमः केकिने शक्तये चापि तुभ्यं नमश्छाग तुभ्यं नमः कुक्कुटाय । नमः सिन्धवे सिन्धुदेशाय तुभ्यं पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु ॥31॥

Verse 32

जयानन्दभूमञ्जयापारधाम- ञ्जयामोघकीर्ते जयानन्दमूर्ते । जयानन्दसिन्धो जयाशेषबन्धो जय त्वं सदा मुक्तिदानेशसूनो ॥32॥

Verse 33

भुजङ्गाख्यवृत्तेन कॢप्तं स्तवं यः पठेद्भक्तियुक्तो गुहं सम्प्रणम्य । सुपुत्रान्कलत्रं धनं दीर्घमायु- र्लभेत्स्कन्दसायुज्यमन्ते नरः सः ॥33॥