Shiva Bhujangam

Śivabhujaṅgam

All 33 verses

Verse by verse

Verse 1

गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् कनद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥1॥

Verse 2

अनाद्यन्तमाद्यं परं तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम् हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महःशैवमीडे ॥2॥

Verse 3

स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं मनोहारिसर्वाङ्गरत्नोरुभूषम् जटाहीन्दुगङ्गास्थिशम्याकमौलिं पराशक्तिमित्रं नुमः पञ्चवक्त्रम् ॥3॥

Verse 4

शिवेशानतत्पूरुषाघोरवामा दिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः अनौपम्य षट्त्रिंशतं तत्त्वविद्या मतीतं परं त्वां कथं वेत्ति को वा ॥4॥

Verse 5

प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणिश्रीमहःश्याममर्धम् गुणस्यूतमेतद्वपुः शैवमन्तः स्मरामि स्मरापत्तिसम्पत्तिहेतोः ॥5॥

Verse 6

स्वसेवासमायातदेवासुरेन्द्रा नमन्मौलिमन्दारमालाभिषिक्तम् नमस्यामि शम्भो पदाम्भोरुहं ते भवाम्भोधिपोतं भवानीविभाव्यम् ॥6॥

Verse 7

जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् महःस्तोममूर्ते समस्तैकबन्धो नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥7॥

Verse 8

विरूपाक्ष विश्वेश विश्वादिदेव त्रयीमूल शम्भो शिव त्र्यम्बक त्वम् प्रसीद स्मर त्राहि पश्यावमुक्त्यै क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ॥8॥

Verse 9

महादेव देवेश देवादिदेव स्मरारे पुरारे यमारे हरेति ब्रुवाणः स्मरिष्यामि भक्त्या भवन्तं ततो मे दयाशील देव प्रसीद ॥9॥

Verse 10

त्वदन्यः शरण्यः प्रपन्नस्य नेति प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् न चेत्ते भवेद्भक्तवात्सल्यहानि स्ततो मे दयालो सदा संनिधेहि ॥10॥

Verse 11

अयं दानकालस्त्वहं दानपात्रं भवानेव दाता त्वदन्यं न याचे भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शम्भो कृतार्थोऽस्मि तस्मात् ॥11॥

Verse 12

पशुं वेत्सि चेन्मां तमेवाधिरूढः कलङ्कीति वा मूर्ध्नि धत्से तमेव द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥12॥

Verse 13

न शक्नोमि कर्तुं परद्रोहलेशं कथं प्रीयसे त्वं न जाने गिरीश तथाहि प्रसन्नोऽसि कस्यापि कान्ता सुतद्रोहिणो वा पितृद्रोहिणो वा ॥13॥

Verse 14

स्तुतिं ध्यानमर्चां यथावद्विधातुं भजन्नप्यजानन्महेशावलम्बे त्रसन्तं सुतं त्रातुमग्रे मृकण्डो र्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥14॥

Verse 15

शिरोद्दृष्टिहृद्रोगशूलप्रमेह ज्वरार्शोजरायक्ष्महिक्काविषार्तान् त्वमाद्यो भिषग्भेषजं भस्म शम्भो त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥15॥

Verse 16

दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये विष्ण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम् भवान्प्राणिनामन्तरात्मासि शम्भो ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ॥16॥

Verse 17

त्वदक्ष्णोः कटाक्षः पतेत्त्र्यक्ष यत्र क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते किरीटस्फुरच्चामरच्छत्रमाला कलाचीगजक्षौमभूषाविशेषैः ॥17॥

Verse 18

भवान्यै भवायापि मात्रे च पित्रे मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै शिवायाम्बिकायै नमस्त्र्यम्बकाय ॥18॥

Verse 19

भवद्गौरवं मल्लघुत्वं विदित्वा प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् शिवात्मानुभावस्तुतावक्षमोऽहं स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥19॥

Verse 20

यदा कर्णरन्ध्रं व्रजेत्कालवाह द्विषत्कण्ठघण्टाघणात्कारनादः वृषाधीशमारुह्य देवौपवाह्यं तदा वत्स मा भीरिति प्रीणय त्वम् ॥20॥

Verse 21

यदा दारुणाभाषणा भीषणा मे भविष्यन्त्युपान्ते कृतान्तस्य दूताः तदा मन्मनस्त्वत्पदाम्भोरुहस्थं कथं निश्चलं स्यान्नमस्तेऽस्तु शम्भो ॥21॥

Verse 22

यदा दुर्निवारव्यथोऽहं शयानो लुठन्निःश्वसन्निःसृताव्यक्तवाणिः तदा जह्नुकन्याजलालङ्कृतं ते जटामण्डलं मन्मनोमन्दिरं स्यात् ॥22॥

Verse 23

यदा पुत्रमित्रादयो मत्सकाशे रुदन्त्यस्य हा कीदृशीयं दशेति तदा देवदेवेश गौरीश शम्भो नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥23॥

Verse 24

यदा पश्यतां मामसौ वेत्ति नास्मा नयं श्वास एवेति वाचो भवेयुः तदा भूतिभूषं भुजङ्गावनद्धं पुरारे भवन्तं स्फुटं भावयेयम् ॥24॥

Verse 25

यदा यातनादेहसन्देहवाही भवेदात्मदेहे न मोहो महान्मे तदा काशशीतांशुसङ्काशमीश स्मरारे वपुस्ते नमस्ते स्मराणि ॥25॥

Verse 26

यदापारमच्छायमस्थानमद्भि र्जनैर्वा विहीनं गमिष्यामि मार्गम् तदा तं निरुन्धन्कृतान्तस्य मार्गं महादेव मह्यं मनोज्ञं प्रयच्छ ॥26॥

Verse 27

यदा रौरवादि स्मरन्नेव भीत्या व्रजाम्यत्र मोहं महादेव घोरम् तदा मामहो नाथ कस्तारयिष्य त्यनाथं पराधीनमर्धेन्दुमौले ॥27॥

Verse 28

यदा श्वेतपत्रायतालङ्घ्यशक्तेः कृतान्ताद्भयं भक्तवात्सल्यभावात् तदा पाहि मां पार्वतीवल्लभान्यं न पश्यामि पातारमेतादृशं मे ॥28॥

Verse 29

इदानीमिदानीं मृतिर्मे भवित्री त्यहो सन्ततं चिन्तया पीडितोऽस्मि कथं नाम मा भून्मृतौ भीतिरेषा नमस्ते गतीनां गते नीलकण्ठ ॥29॥

Verse 30

अमर्यादमेवाहमाबालवृद्धं हरन्तं कृतान्तं समीक्ष्यास्मि भीतः मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादा द्भवानीपते निर्भयोऽहं भवानि ॥30॥

Verse 31

जराजन्मगर्भाधिवासादिदुःखा न्यसह्यानि जह्यां जगन्नाथ देव भवन्तं विना मे गतिर्नैव शम्भो दयालो न जागर्ति किं वा दया ते ॥31॥

Verse 32

शिवायेति शब्दो नमःपूर्व एष स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची महेशान मा गान्मनस्तो वचस्तः सदा मह्यमेतत्प्रदानं प्रयच्छ ॥32॥

Verse 33

त्वमप्यम्ब मां पश्य शीतांशुमौलि प्रिये भेषजं त्वं भवव्याधिशान्तौ बहुक्लेशभाजं पदाम्भोजपोते भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥33॥